ॐ यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ।
ते हं नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा:।
ॐ राजाधिराजाय प्रसह्ये साहिने । नमो वयं वैश्रवणाय कुर्महे।
स मे कामान्कामकामाय मह्यम्। कामेश्वरो वैश्रवणो ददातु।
कुबेराय वैश्रवणाय । महाराजाय नम:।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं
माहाराज्यमाधिपत्यमयं समंतपर्यायी।
स्यात्सार्वभौम: सार्वायुष आंतादापरार्धात्पृथिव्यै समुद्रपर्यंता या एकराळिति।
तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन्गृहे।
आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति।
संपूर्ण आरती संग्रहासाठी इथे क्लिक करा
Click to rate this post!
[Total: 0 Average: 0]